|
|
 |
 |
|
|
७ द्रोणपर्व.jpg)
॥ श्रीः ॥
7.51. अध्यायः 051
Mahabharata - Drona Parva - Chapter Topics
युधिष्ठिरस्याभिमन्युमनुशोच्य विलापः॥ 1 ॥

Mahabharata - Drona Parva - Chapter Text
सञ्जय उवाच। 7-51-0x(4378)(46764)
हते तस्मिन्महावीर्ये सौभद्रे रथयूथपे।
विमुक्तरथसन्नाहाः सर्वे निक्षिप्तकार्मुकाः॥ 7-51-1(46765)
उपोपविष्टा राजानं परिवार्य युधिष्ठिरम्।
तदेव युद्धं ध्यायन्तः सौभद्रगतमानसाः॥ 7-51-2(46766)
ततो युधिष्ठिरो राजा विललाप सुदुःखितः।
ततो युधिष्ठिरो राजा विललाप सुदुःखितः। 7-51-3(46767)
अभिमन्यौ हते वीरे भ्रातुः पुत्रे महारथे॥ 7-51-4(46768)
युधिष्ठिर उवाच। 7-51-4x(4379)
एनं जित्वा कृपं शल्यं राजानं च सुयोधनम्।
द्रोँणं द्रौणिं महेष्वासं तथैवान्यान्महारथान्॥ 7-51-4(46769)
द्रोणानीकमसम्बाधं मम प्रियचिकीर्षया।
`हत्वा शत्रुगणान्वीरानेष शेते महारथः॥ 7-51-5(46770)
कृतास्त्रयु द्धकुशलान्महेष्वासान्महाबलान्।
कुलशः पूणैर्युक्ताञ्छूरान्विख्यातपौरुषान्॥ 7-51-6(46771)
द्रोणेन र्प्राहेतं व्यूहमभेद्यममरैरपि।
अदृष्टपूर्वमस्माभिः पद्मं चक्रायुधप्रियः'॥ 7-51-7(46772)
भित्त्वा मध्यं प्रविष्टोऽसौ गोमध्यमिव केसरी।
`विक्रीडितं रणे तेन निघ्नता वै परान्वरान्'॥ 7-51-8(46773)
यस्य शूरा महेष्वासाः प्रत्यनीकगता रणे।
प्रभग्ना विनिवर्तन्ते कृतास्त्रा युद्धदुर्मदाः॥ 7-51-9(46774)
अत्यन्तशत्रुरस्माकं येन दुःशासनः शरैः।
क्षिप्रं ह्यभिमुखः सङ्ख्ये विसंज्ञो विमुखीकृतः॥ 7-51-10(46775)
स तीर्त्वा दुस्तरं वीरो द्रोणानीकमहार्णवम्।
प्राप्य दौःशासनिं कार्ष्णिः प्राप्तो वैवस्वतक्षयम्॥ 7-51-11(46776)
कथं द्रक्ष्यामि कौन्तेयं सौभद्रे निहतेऽर्जुनम्।
सुभद्रां वा महाभागां प्रियं पुत्रमपश्यतीम्॥ 7-51-12(46777)
`हतवत्सां यथा धेनुं तद्दृर्शनकृतोन्मुखीम्'।
किंस्विद्वक्ष्याम्यपेतार्थमक्लिष्टमसमञ्जसम्।
तावुभौ प्रतिवक्ष्यामि हृषीकेशधनञ्जयौ॥ 7-51-13(46778)
अहमेव सुभद्रायाः केशवार्जुनयोरपि।
प्रियकामो जयाकाङ्क्षी कृतवानिदमप्रियम्॥ 7-51-14(46779)
न लुब्धो बुध्यते दोषाँल्लोभान्मोहात्प्रवर्तते।
मधुलिप्सुर्हि नापश्यं प्रपातमहमीदृशम्॥ 7-51-15(46780)
यो हि भोज्ये पुरस्कार्यो यानेषु शयनेषु च।
भूषणेषु च सोऽस्माभिर्बालो युधि पुरस्कृतः॥ 7-51-16(46781)
कथं हि बालस्तरुणो युद्धानामविशारदः।
सदश्व इव सम्बाधे विषमे क्षेममर्हति॥ 7-51-17(46782)
नो चेद्धि वयमप्येनं महीमनुशयीमहि।
बीभत्सोः कोपदीप्तस्य दग्धाः कृपणचक्षुषा॥ 7-51-18(46783)
अलुब्धो मितमान्हीमान्क्षमावान्रूपवान्बली।
वपुष्मान्मानकृद्वीरः प्रियः सत्यपराक्रमः॥ 7-51-19(46784)
यस्य श्लाघन्ति विबुधाः कर्माण्यूर्जितकर्मणः।
निवातकवचाञ्जघ्ने कालकेयांश्च वीर्यवान्॥ 7-51-20(46785)
महेन्द्रशत्रवो येन हिरण्यपुरवासिनः।
अक्ष्णोर्निमेषमात्रेण पौलोभाः सगणा हताः॥ 7-51-21(46786)
परेभ्योऽप्यभयार्थिभ्यो यो ददात्यभयं विभुः।
तस्यास्माभिर्न शकितस्त्रातुमप्यात्मजो बली॥ 7-51-22(46787)
भयं तु सुमहत्प्राप्तं धार्तराष्ट्रान्महाबलान्।
पार्थः पुत्रवधात्क्रुद्धः कौरवाञ्शोषयिष्यति॥ 7-51-23(46788)
क्षुद्रः क्षुद्रसहायश्च स्वपक्षक्षयकारकः।
व्यक्तं दुर्योधनो दृष्ट्वा शोचन्हास्यति जीवितं॥ 7-51-24(46789)
न मे जयः प्रीतिकरो न राज्यं
न चामरत्वं न सुरैः सलोकता।
इमं समीक्ष्याप्रतिवीर्यपौरुषं
निपातितं देववरात्मजात्मजम्॥ ॥ 7-51-25(46790)
इति श्रीमन्महाभारते द्रोणपर्वणि अभिमन्युवधपर्वणि एकपञ्चाशत्तमोऽध्यायः॥ 51 ॥
Mahabharata - Drona Parva - Chapter Footnotes
5-51-5 असंबाधं अप्रतीघातम्॥ 5-51-13 असमञ्जसमयुक्तरूपम्॥ 5-51-17 सम्बाधे गहने॥ 5-51-19 एनं अभिमन्युं अनुचेन्न महीं शयीमहि तदा क्रोधदीप्तस्य बीभत्सोः कृपणेनावसन्नेन चक्षुषा दग्धा भवेमहीत्यन्वयः॥ 5-51-19 वपुष्मांस्तेजस्वी॥ 5-51-51 एकपञ्चाशत्तमोऽध्यायः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|